Bihar Board Class 10 Sanskrit Chapter 13 Notes – पाठ-13 विश्वशान्तिः – Vishwa Shanti Sanskrit class 10

इस पाठ में हम Bihar Board Class 10 Sanskrit Chapter 13 Notes – पाठ-13 विश्वशान्तिःQuestion Answer पीयूषम् भाग 2 संस्‍कृत की प्रत्येक पंक्ति का अर्थ उसके वस्तुनिष्ठ प्रश्नों के साथ पढ़ेंगे।

पाठ-13 विश्वशान्तिः – Bihar Board Class 10 Sanskrit Chapter 13 Notes

  • (पाठेऽस्मिन् संसारे वर्तमानस्य अशान्तिवातावरणस्य चित्रणं तत्समाधानोपायश्च निरूपितौ । देशेषु आन्तरिकी वाह्या च अशान्तिः वर्तते । तामुपेक्ष्य न कश्चित् स्वजीवनं नेतुं समर्थः । सेयम् अशान्तिः सार्वभौमिकी वर्तते इति दुःखस्य विषयः। सर्वे जनाः तया अशान्त्या चिन्तिताः सन्ति । संसारे तन्निवारणाय प्रयासाः क्रियन्ते ।)

इस पाठ में वर्तमान संसार में अशांति का चित्रण और इसके समाधान को निरूपित किया गया है। देशों में आंतरिक और बाह्य अशांति है। हर कोई अपना जीवन जीने में असमर्थ है। पूरे विश्व में अशांति फैला हुआ है। यह दुख का विषय है। सभी लोग चिन्तित है। संसार में निवारण का प्रयास किया जा रहा है।

  • Class 10th Sanskrit Viswa Shanti पाठ 13 विश्वशांतिः (विश्व की शांति)
    वर्तमाने संसारे प्रायशः सर्वेषु देशेषु उपद्रवः अशान्तिर्वा दृश्यते । क्वचिदेव शान्तं वातावरणं वर्तते । क्वचित् देशस्य आन्तरिकी समस्यामाश्रित्य कलहो वर्तते, तेन शत्रुराज्यानि मोदमानानि कलहं वर्धयन्ति । क्वचित् अनेकेषु राज्येषु परस्परं शीतयुद्धं प्रचलति । वस्तुतः संसारः अशान्तिसागरस्य कूलमध्यासीनो दृश्यते ।

इस समय प्रायः संसार के सभी देशों में अशान्ति देखे जाते हैं। संयोग से ही कहीं शान्ति का वातावरण देखेने को मिलता है। किसी देश में आन्तरिक अव्यवस्था के कारण अशांति है तो कहीं शत्रु देश द्वारा अशांति फैलाया जा रहा है तो कहीं अनेक देशों में शीतयुद्ध चल रहा है। इस प्रकार सारा संसार ही अशांति के वातावरण में जी रहा है।

  • अशान्तिश्च मानवताविनाशाय कल्पते । अद्य विश्वविध्वंसकान्यस्त्राणि बहून्याविष्कृतानि सन्ति । तैरेव मानवतानाशस्य भयम् । अशान्तेः कारणं तस्याः निवारणोपायश्च सावधानतया चिन्तनीयौ । कारणे ज्ञाते निवारणस्य उपायोऽपि ज्ञायते इति नीतिः ।

अशांति मानवता के विनाश का कारण है। इस समय विनाशकारी अस्त्रों का निर्माण विशाल पैमाने पर हो रहा है, उससे ही मानवता के विनाश का भय बना हुआ है। अशांति के कारणों के निवारण के उपायों पर ध्यानपूर्वक विचार किया जाना चाहिए। अशांति के कारणों का पता लगाते हुए उनके समाधान के उपायों का भी पता करना चाहिए।

  • वस्तुतः द्वेषः असहिष्णुता च अशान्तेः कारणद्वयम् । एको देशः अपरस्य उत्कर्षं दृष्ट्वा द्वेष्टि, तस्य देशस्य उत्कर्षनाशाय निरन्तरं प्रयतते । द्वेषः एवं असहिष्णुतां जनयति । इमौ दोषौ परस्परं वैरमुत्पादयतः । स्वार्थश्च वैरं प्रवर्धयति । स्वार्थप्रेरितो जनः अहंभावेन परस्य धर्मं जाति सम्पत्तिं क्षेत्रं भाषां वा न सहते ।

वास्तव में, ईर्ष्या एवं असहनशीलता अशान्ति के मुख्य दो कारण है। एक देश दूसरे देश की उन्नति अथवा विकास देखकर जलभुन जाते हैं, और उस देश को हानि पहुँचाने का प्रयास करने लगते हैं। द्वेष ही असहनशीलता पैदा करता है। इन दोनों दोषों के कारण शत्रुता जन्म लेती हैं। स्वार्थ दुश्मनी बढ़ाती है। स्वार्थ से अंधा व्यक्ति अहंकारवश दुसरों के धार्मिक, सामाजिक और भाषाई एकता सहन नहीं कर पातें।

  • आत्मन एव सर्वमुत्कृष्टमिति मन्यते। राजनीतिज्ञाश्च अत्र विशेषेण प्रेरकाः । सामान्यो जनः न तथा विश्वसन्नपि बलेन प्रेरितो जायते । स्वार्थोपदेशः बलपूर्वकं निवारणीयः। परोपकारं प्रति यदि प्रवृत्तिः उत्पाद्यते तदा सर्वे स्वार्थं त्यजेयुः। अत्र महापुरुषाः विद्वांसः चिन्तकाश्च न विरलाः सन्ति ।

वे निजी विकास को ही उत्तम मानते हैं। इस निकृष्ट विचार के मुख्य प्रेरक राजनेता हैं। सामान्य लोग ही नहीं, विशिष्ट जन भी बलपूर्वक प्रेरित किए जाते हैं। इसलिए स्वार्थी भावना को बलपूर्वक दूर करना चाहिए। यदि परोपकार के प्रति रूचि जग जाती है तब स्वतः सारे स्वार्थ मिट जाते हैं। यहाँ महापुरूष, विद्वान तथा चिन्तकों का अभाव नहीं है।

  • तेषां कर्तव्यमिदं यत् जने-जने, समाजे-समाजे, राज्ये-राज्ये च परमार्थ वृत्तिं जनयेयुः । शुष्कः उपदेशश्च न पर्याप्तः, प्रत्युत तस्य कार्यान्वयनञ्च जीवनेऽनिवार्यम् । उक्तञ्च – ज्ञानं भारः क्रियां विना। देशानां मध्ये च विवादान् शमयितुमेव संयुक्तराष्ट्रसंघप्रभृतयः संस्थाः सन्ति । ताश्च काले-काले आशङ्कितमपि विश्वयुद्धं निवारयन्ति ।

उनका कर्तव्य है कि वे हर व्यक्ति, हर समाज तथा हर देश में परोपकार की भावना का प्रचार करें। थोथा उपदेश काफी नहीं है, बल्कि वैसा आचरण भी अपनाना जरूरी है। क्योंकि कहा गया है कि. क्रिया के बिना ज्ञान बोझ स्वरूप होता है। दो देशों के आपसी विवाद को खत्म करने के लिए संयुक्त राष्ट संघ आदि संस्थाएँ हैं। यहीं समय-समय पर संभावित विश्व युद्ध को दूर करती है।

  • भगवान बुद्धः पुराकाले एव वैरेण वैरस्य शमनम् असम्भवं प्रोक्तवान् । अवैरेण करुणया मैत्रीभावेन च वैरस्य शान्तिः भवतीति सर्वे मन्यन्ते ।। भारतीयाः नीतिकाराः सत्यमेव उद्घोषयन्ति –
    अयं निजः परो वेति गणना लघुचेतसाम् ।
    उदारचरितानां तु वसुधैव कुटुम्बकम् ॥

प्राचीन काल में भगवान बुद्ध ने कहा था, दुश्मनी से दुश्मनी को खत्म करना संभव नहीं है। मित्रता एवं दया से शत्रुता भाव को शांत करना संभव है। ऐसा सबका मानना है। भारतीय नीतिज्ञों ने सच ही कहा है।
यह मेरा है, वह दुसरों का है- ऐसा नीच विचारवाले मानते हैं। उदारचित वाले अर्थात् महापुरूषों के लिए सारा संसार ही अपने परिवार जैसा है।

  • परपीडनम् आत्मनाशाय जायते, परोपकारश्च शान्तिकारणं भवति । अद्यापि परस्य देशस्य संकटकाले अन्ये देशाः सहायताराशि सामग्री च प्रेषयन्ति इति विश्वशान्तेः सूर्योदयो दृश्यते ।

दूसरों के कष्ट पहुँचाने से अपना ही नुकसान होता है और दूसरों के सहयोग से शांति मिलती है। आज भी किसी दूसरे देश के संकट में शहायता राशि भेजी जाती है। इससे विश्व शांति की आशा प्रकट होती है ।

व्याकरण

शब्दार्थ:-

  • वा = अथवा
  • आश्रित्य = सहारा लेकर
  • मोद मानानि = आनन्दित |

विच्छेदः

  • अशानिर्वा = अशान्ति : + वा
  • क्वचिदेव = क्वचित् + एव ।

समास :

  • महापुरुष: = महान् चासौ पुरुष: (कर्मधारय) इत्यादि पाठ के अनुकूल ।
  • अशांति = न शान्ति ( नञ समास) ।

प्रकृति-प्रत्यय विभाग:-

  • आश्रित्य = आ + श्रि + ल्यप्
  • दृष्ट्वा = दृश् + क्त्वा ।

अभ्यासः

मौखिकः

1.एकपदेन उत्तरं वदत-

(क) शत्रु राज्यानि किं वर्धयन्ति ?
उत्तर – कलहम् ।

(ख) अनेकेषु राज्येषु परस्परं किं प्रचलन्ति ।
उत्तर– शीतयुद्धम् ।

(ग) सर्वं किं त्यजेयुः ।
 उत्तर – स्वार्थम् ।

(घ) वैरेण कस्य शमनम् असम्भवम् ।
उत्तर– वैरस्य ।

(ङ) क्रिया विना किं भारः ।
उत्तर– ज्ञानम् ।

2. निम्नलिखितानि पदानां प्रकृति प्रत्यय विभांग वदत् –
उत्तरं—

  • नीतिः—नी + क्तिन ।
  • उक्तम्-वच् + क्त ।
  • दृष्ट्वा दृश् + क्त्वा ।
  • शमनम्–शम् + ल्युट् !
  • आश्रित्य—आ + श्रि + ल्यप् |

लिखितः

1. अधोलिखितान प्रश्नानां उत्तराणि संस्कृत भाषायां लिखत– 

(क) अशान्ति सागरस्य कूल मध्यासीनः कः दृश्यते ?
उत्तरं—अशान्ति सागरस्य कूल मध्यासीनः संसार: दृश्यते ।

( ख ) अद्य विध्वंसकानि कानि आविष्कृतानि सन्ति ?
उत्तर – अद्य विध्वंसकानि अस्त्राणि अविष्कृतानि सन्ति ।

(ग) अशान्ते; कारण द्वयं किम् अस्ति ?
उत्तर- अशान्ते: कारणद्वयं द्वेष: असहिष्णुता च अस्ति ।

(घ) असहिष्णुता कः जनयति ?
उत्तर – असहिष्णुता द्वेषः जनयति ।

(ङ) कः बलपूर्वकं निवारणीयः ।
उत्तरं स्वार्थोपदेश: बलपूर्वक निवारणीयन् ।

2. अधोलिखित् पदानां स्ववाक्येषु संस्कृते प्रयोगं कुरुत-

  • अयम्– अयम् देश: विशालः अस्ति ।
  • अशान्ति:- अशान्तिः अद्य सर्वत्र दृश्यते ।
  • मैत्री—मैत्री परस्परं करणीयम् ।
  • उत्कर्षम् – परस्य उत्कर्षं दृष्ट्वा जनाः द्वेषं कुर्वन्ति ।
  • प्रेरक: – राजनीतिज्ञ अशान्ते: प्रेरक भवति ।
  • परोपकारः – परोपकारः एव शान्ति स्थापनाया: करणं भवति ।

3. सन्धि विच्छेदं कुरुत
उत्तर-

  • परोपकारः – पर + उपकार: ।
  • विश्वन्नपि = विश्वसन् + अपि ।
  • निवारणोपायश्च = निवारण + उपाय: + च ।
  • उक्तम् – उक्तञ्च + च ।
  • भवतीति – भवति + इति ।
  • जीवनेऽनिवार्यम् = जीवने + अनिवार्यम् ।
  • वसुधैव = वसुधा + एव ।

4. अधोलिखितेषु वाक्येषु रेखाङ्कित पदानि अधारी कृत्य प्रश्न निर्माण कुरुत

( क ) कारणे जाते निवारणस्य उपायोऽपि ज्ञायते ।
उत्तर-कस्मिन् ज्ञाते निवारणस्य उपायोऽपि ज्ञायते ?

( ख ) सर्वेषु देशेषु अशान्तिः दृश्यते ।
उत्तर – कुत्र अशान्तिः दृश्यते ।

(ग) स्वार्थ: वैर प्रवर्धयति ।
उत्तर-क: वैरं प्रवर्धयति ।

(घ) राजनीतिज्ञाः अत्र विशेषणं प्रेरका ?
उत्तर- का: अत्र विशेषेण प्रेरका: ?

( ङ ) सामान्यो जनः न तथा विश्वसन्नपि बलेन प्रेरितो जायते ।
उत्तर- कः न तथा विश्वसन्नपि बलेन प्रेरितो जायते ?

5. अधोलिखितानां पदानां प्रकृति-प्रत्यय विभागं कुरुत

  • उक्तम् = वच् + क्त ।
  • नीतिः = नी + क्तिन् ।
  • भार: – भृ + धञ् ।
  • शमनम् = शम् + ल्युट्
  • शान्तिः = शम् + कितन् ।
  • आश्रित्य = आ + श्रि + ल्यप् ।

7. अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत

 (क) एकवचन–विद्वान कथयति । 
उत्तर – बहुवचन-विद्वांसः कथयन्ति । 

(ख) एकवचन-जन जानाति ।
उत्तर– बहुवचन-जनाः जानन्ति । 

(ग) एकवचन-भारतीय: नीतिकारः उद्घोषयति । – 
उत्तर – बहुवचन – भारतीया: नीतिकाराः उद्घोषयन्ति ।

(घ) एकवचन-देश: प्रेषयति । 
उत्तर– बहुवचन– देशा: प्रेषयन्ति । 

(ङ) एकवचन-सः उत्कृष्टं मन्यते । 
उत्तर बहुवचन–ते उत्कृष्टं मन्यते । 

(च) एकवचन–त्वं कुत्र गच्छसि । 
उत्तर–बहुवचन यूयम् कुत्र गच्छथ । 

8. स्तम्भ द्वये लिखितानां विपरीतार्थक शब्दानां मेलनं कुरुत-
उत्तर :-

  • स्वार्थ: = परमार्थ
  • बलम् = निर्बलम्
  • सामान्यः = विशेष:
  • उत्कर्ष: = अपकर्ष:
  • द्वेषः = मित्रता 
  • शीतम् = उष्णम्
  • विध्वंसम् = निर्माणम्

कोष्ठान्तर्गतानां शब्दानां सहाय्येन ।

रिक्त स्थानानि पूरयत–
 उत्तरं –

  • (क) अशान्तेः कारणं तस्याः निवारणोपायश्च सावधानतया चिन्तनीयों |
  • (ख) अवैरेण करुणया मैत्री भावेन च वैरस्य शान्तिः भवति ।
  •  (ग) अत्र महापुरुषा: बिरलाः सन्ति ।
  • (घ) शुष्क उपदेश: न पर्याप्तः ।
  • (ङ) क्वचिदपि शान्तं वातावरणं वर्तते ।

पठित पाठेन विश्व शान्तये…………….दशकं धर्मालक्षणम् । 

अर्थ – पठित पाठ के द्वारा विश्व शांति के लिए जन जागरण करने का प्रयास किया गया से | इस पाठ का संदेश यह है कि शांति के द्वारा ही विश्व कल्याण होगा। किन्तु अनेक कारणों आजकल संसार में अशान्ति का अनुभव किया जा रहा है। द्वेष, असहिष्णुता, अविश्वास असंतोष और स्वार्थ आदि दुगुर्ण बढ़ रहे हैं तो शान्ति कहाँ ? शान्ति भारतीय दर्शन का मूल तत्व है । यह शान्ति धर्ममूलक है । “रक्षित धर्म रक्षा करता है ।” यह प्राचीन सन्देश विश्व के रक्षण के लिए प्रेरित करता है। धर्म के दस लक्षण हैं— धैर्य, क्षमा, दम, अस्तेय (चोरी नहीं करने का भाव) शौच (पवित्र) इन्द्रिय निग्रह, घी (बुद्धि) विद्या, सत्य और अक्रोध । किमपि कुर्याम् । आगच्छन्तु ! वयं अस्तित्व

संस्कृत पीयूषम् भाग 2 Subjective

About the author

My name is Najir Hussain, I am from West Champaran, a state of India and a district of Bihar, I am a digital marketer and coaching teacher. I have also done B.Com. I have been working in the field of digital marketing and Teaching since 2022

Leave a comment